|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.243. अध्यायः 243
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भूतेषु तारतम्यकतनपूर्वकज्ञानप्रशंसापरशुकसंबोध्यकव्यासवाक्यानुवादः॥ 1॥
Mahabharata - Shanti Parva - Chapter Text

व्यास उवाच। 12-243-0x(6234)(75275)
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः।
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत्॥ 12-243-1(75276)
शुक उवाच। 12-243-2x(6235)
किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम्।
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि॥ 12-243-2(75277)
व्यास उवाच। 12-243-3x(6236)
यस्तु पश्यन्स्वभावेन विनाभावमचेतनः।
पुष्णाति स पुनः सर्वान्प्रज्ञया मुक्तहेतुकः॥ 12-243-3(75278)
येषां चैकान्तभावेन स्वभावः कारणं मतम्।
दूर्वातृणवृसीका ये ते लभन्ते न किंचन॥ 12-243-4(75279)
येचैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः।
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते॥ 12-243-5(75280)
स्वभावो हि विनाशाय मोहकर्ममनोभवः।
निरुक्तमेतयोरेतत्स्वभावपरिभावयोः॥ 12-243-6(75281)
कृष्यादीनीह कर्माणि सस्यसंहरणानि च।
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च॥ 12-243-7(75282)
आक्रीडानां गृहाणां च गदानामगदस्य च।
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः॥ 12-243-8(75283)
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति।
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः॥ 12-243-9(75284)
परावरं तु भूतानां ज्ञानेनैवोपलभ्यते।
विद्यया तात सृष्टानां विद्यैवेह परा गतिः॥ 12-243-10(75285)
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्।
जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत्॥ 12-243-11(75286)
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत्।
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया॥ 12-243-12(75287)
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु।
बहुषाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि॥ 12-243-13(75288)
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च।
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते॥ 12-243-14(75289)
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि तु।
मध्यमानि विशिष्टानि जातिधर्मोपधारणात्॥ 12-243-15(75290)
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च।
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्॥ 12-243-16(75291)
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च।
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः॥ 12-243-17(75292)
वेदज्ञानि द्वयान्याहुः प्रवक्तृणीतराणि च।
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात्॥ 12-243-18(75293)
विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफलाः।
सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः॥ 12-243-19(75294)
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च।
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्॥ 12-243-20(75295)
धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित्।
सत्याशीः सत्यसंकल्पः सत्यः शुचिरथेश्वरः॥ 12-243-21(75296)
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः।
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्॥ 12-243-22(75297)
अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम्।
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः॥ 12-243-23(75298)
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम्।
तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन॥ 12-243-24(75299)
आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः।
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः॥ ॥ 12-243-25(75300)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 243॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-243-3 मुक्तहेतुकानिति झ. पाठः॥ 12-243-4 पूत्वा तृणमिषीकां वेति झ. पाठः॥ 12-243-7 सस्यसंग्रहणानि चेति थ. पाठः॥ 12-243-8 गदानां रोगाणाम्। अगदस्यौषधस्य। अनुष्ठिताः प्रयोजिताः। गतानामागतस्य चेति ट. थ। पाठः॥ 12-243-9 तुल्यलक्षणाः प्रज्ञाधिक्याद्वैश्वर्याधिक्यभाजः॥ 12-243-12 यच्चेष्टे विशिष्येत निचेष्टक इति ट. थ. पाठः॥ 12-243-14 पार्थिवानि पृथिवीचराणि मानुषाणि। इतराणि स्वेचराणि॥ 12-243-19 सर्वयज्ञाः क्रिया वेदा इति ध. पाठः॥ 12-243-21 धर्मद्वयं प्रवृत्तिनिवत्तिरूपं। सत्यागीति झ. पाठः। सत्यक्षान्तिः स ईश्वर इति ट.थ. पाठः॥ 12-243-22 शब्दब्रह्मणि वेदशास्त्रे॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|